(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.184. अध्यायः 184
Mahabharata - Drona Parva - Chapter Topics
कर्णशक्तेर्घटोत्कचवधेन वैफल्याद्धृतराष्ट्रेण शोचनम्॥ 1 ॥ युधिष्ठिरेण कृष्णे घटोत्कचकृतोपकारनिवेदनपूर्वकं शोचन॥ 2 ॥ व्यासेन क्रोधात्कर्णजिघांसया गच्छन्तं युधिष्ठिरमेत्य समाश्वासनेन तं निवर्त्य पुनरन्तर्धानम्॥ 3 ॥


Mahabharata - Drona Parva - Chapter Text

धृतराष्ट्र उवाच। 7-184-0x(4754)(53487)
कर्णदुर्योधनादीनां शकुनेः सौबलस्य च।
अपनीतं महत्तात तव चैव विशेषतः॥ 7-184-1(53488)
यदि जानीथ तां शक्तिमेकघ्नीं सततं रणे।
अनिवार्यामसह्यां च देवैरपि सवासवैः॥ 7-184-2(53489)
सा किमर्थं तु कर्णेन प्रवृत्ते समरे पुरा।
न देवकीसुते मुक्ता फल्गुने वाऽपि सञ्जय॥ 7-184-3(53490)
सञ्जय उवाच। 7-184-4x(4755)
सङ्ग्रामाद्विनिवृत्तानां सर्वेषां नो विशाम्पते।
रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत॥ 7-184-4(53491)
प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा।
शक्तिरेषा हि मोक्तव्या कर्णकर्णेनि नित्यशः॥ 7-184-5(53492)
ततः प्रभातसमये राजन्कर्णस्य दैवतैः।
अन्येषां चैव योधानां सा बुद्धिर्नाश्यते पुनः॥ 7-184-6(53493)
दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया।
न जघान रणे पार्थं कृष्णं वा देवकीसुतम्॥ 7-184-7(53494)
तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता।
दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान्॥ 7-184-8(53495)
कृष्णे वा देवकीपुत्रे मोहितो देवमायया।
पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो॥ 7-184-9(53496)
धृतराष्ट्र उवाच। 7-184-10x(4756)
दैवेनोपहता यूयं स्वबुद्ध्या केशवस्य च।
गता हि वासवी हत्वा तृणभूतं घटोत्कचम्॥ 7-184-10(53497)
कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः।
तेन वै दुष्प्रणीतेन गता वैवस्वतक्षयम्॥ 7-184-11(53498)
भूय एव तु मे शंस यथा युद्धमवर्तत।
कृरूणां पाण्डवानां च हैडिम्बौ निहते तदा॥ 7-184-12(53499)
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः।
सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम्॥ 7-184-13(53500)
सौमदत्तेर्वधाद्द्रोणमायान्तं सैन्धवस्य च।
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम्॥ 7-184-14(53501)
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम्।
कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः॥ 7-184-15(53502)
आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः।
द्रौणिकर्णकृपास्तात ते वाऽकुर्वन्किमाहवे॥ 7-184-16(53503)
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकीदरौ।
समार्च्छन्मामका युद्धे कथं सञ्जय शंस मे॥ 7-184-17(53504)
सिन्धुराजवधेनेमे घटोत्कचवधेन ते।
अमर्पिताः सुसङ्क्रुद्धा रणं चक्रुः कथं निशि॥ 7-184-18(53505)
सञ्जय उवाच। 7-184-19x(4757)
हते घटोत्कचे राजन्कर्णेन निशि राक्षसे।
प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु॥ 7-184-19(53506)
आपतत्सु च वेगेन वध्यमाने बलेऽपि च।
विगाढायां रजन्यां च राजा दैन्यं परं गतः॥ 7-184-20(53507)
अब्रवीच्च महाबाहुर्भीमसेनमिदं वचः।
आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम्॥ 7-184-21(53508)
हैडिम्बेश्चैव घातेन मोहो मामाविशन्महान्।
एवं भीमं समादिश्य स्वरथे समुपाविशत्॥ 7-184-22(53509)
अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनःपुनः।
कश्मलं प्राविशद्धोरं दृष्ट्वा कर्णस्य विक्रमम्॥ 7-184-23(53510)
तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत्॥ 7-184-24(53511)
मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते।
वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे॥ 7-184-25(53512)
उत्तिष्ठ राजन्युध्वस्व वह गुर्वीं धुरं विभो।
त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत्॥ 7-184-26(53513)
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः।
विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत्॥ 7-184-27(53514)
विदिता मे महाबाहो धर्माणां परमा गतिः।
ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते॥ 7-184-28(53515)
अस्माकं हि वनस्थानां हैडिम्बेन महात्सना।
बालेनापि सता तेन कृतं साह्यं जनार्दन॥ 7-184-29(53516)
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं स्वेतवाहनम्।
असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः॥ 7-184-30(53517)
उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः।
गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः।
पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना॥ 7-184-31(53518)
आरम्भांश्चैव युद्धानां यदेष कृतवान्प्रभो।
मदर्थे दुष्करं कर्म कृतं तेन महाहवे॥ 7-184-32(53519)
स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन।
सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे॥ 7-184-33(53520)
भक्तश्च मेहाबाहुः प्रियोऽस्याहं प्रियश्च मे।
तेन विन्दामि वार्ष्णेय कश्मलं शोकतापिताः॥ 7-184-34(53521)
पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः।
द्रोणकर्णौ तु संयत्तौ पश्य युद्धे महारथौ॥ 7-184-35(53522)
निशीथे पाण्डवं सैन्यमाभ्यां माधव मर्दितम्।
गजाभ्यामिव मत्ताभ्यां यथा नलवनं महत्॥ 7-184-36(53523)
अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव।
चित्रास्त्रतां च पार्थस्य विक्रमन्ते च कौरवाः॥ 7-184-37(53524)
एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः।
निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे॥ 7-184-38(53525)
कथं वाऽसमासु जीवत्सु त्वयि चैव जनार्दन।
हैडिम्बिः प्राप्तवान्मृत्यं सूतपुत्रेण सङ्गतः॥ 7-184-39(53526)
कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः।
निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः॥ 7-184-40(53527)
यदाऽभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः।
नासीत्तत्र रणे कृष्ण सव्यसाची महारथः॥ 7-184-41(53528)
निरुद्वाश्च वयं सर्वे सैन्धवेन दुरात्मना।
निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि॥ 7-184-42(53529)
उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम्।
व्यायच्छतश्च खङ्गेन द्विधा खङ्गं चकार ह॥ 7-184-43(53530)
व्यसने वर्तमानस्य कृतवर्मा नृशंसवत्।
अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी।
तथेतरे महेष्वासाः सौभद्रं युध्यपातयन्॥ 7-184-44(53531)
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना।
सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम॥ 7-184-45(53532)
यदि शत्रुवधो न्याय्यो भवेत्कर्तुं हि पाण्डवैः।
कर्णद्रोणौ रणे पूर्वं हन्तव्याविति मे मतिः॥ 7-184-46(53533)
एतौ हि मूलं दुःखानामस्माकं पुरुषर्षभ।
एतौ रणे समासाद्य समाश्वस्तः सुयोधनः॥ 7-184-47(53534)
यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः।
तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम्॥ 7-184-48(53535)
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः।
ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया॥ 7-184-49(53536)
भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः॥ 7-184-50(53537)
एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः।
स विष्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम्॥ 7-184-51(53538)
ततो रथसहस्रेण गजानां च शतैस्त्रिभिः।
वाजिभिः पञ्चसाहस्रैः पाञ्चालैः सप्रभद्रकैः।
वृतः शिखण्डी तवरितो राजानं पृष्ठतोऽन्वयात्॥ 7-184-52(53539)
ततो भेरीः समाजघ्नुः पणवानकगोमुखान्।
शह्खशब्दरवांश्चैव पाणिशब्दांश्च दंशिताः।
पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः॥ 7-184-53(53540)
ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम्॥ 7-184-54(53541)
एष प्रयाति त्वरितः क्रोधाविष्टो युधिष्ठिरः।
जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते॥ 7-184-55(53542)
एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत्।
दूरं प्रयान्तं राजानमन्वगच्छज्जनार्दनः॥ 7-184-56(53543)
तं दृष्ट्वा सहसा यान्तं भूतपुत्रजिघांसया।
शोकोपहतसङ्कल्पं दह्यमानमिवाग्निना।
अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम्॥ 7-184-57(53544)
व्यास उवाच। 7-184-58x(4758)
कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः॥ 7-184-58(53545)
सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः।
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तेन महारणे॥ 7-184-59(53546)
सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः।
वध्मानेषु चास्त्रेषु पीडितः सूतनन्दनः॥ 7-184-60(53547)
वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर।
ततो भवेत्ते व्यसनं घोरं भरतसत्तम॥ 7-184-61(53548)
दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद।
वासवीं कारणं कृत्वा कालेनोपहतो ह्यसौ॥ 7-184-62(53549)
तवैव कारणाद्रक्षो निहतं तात संयुगे।
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः॥ 7-184-63(53550)
प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर।
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः॥ 7-184-64(53551)
कौरवान्समरे राजन्प्रतियुध्यस्व भारत।
पञ्चमे दिवसे तात पृथिवी ते भविष्यति॥ 7-184-65(53552)
नित्यं च पुरुषव्याघ्र धर्ममेवानुचिन्तय।
आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव॥ 7-184-66(53553)
सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः।
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत॥ ॥ 7-184-67(53554)

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुरशीत्यधिकशततमोऽध्यायः॥ 184 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-184-1 महत् जयालम्बनममोघशक्तिरूपमिति शेषः। अपनीतं ना शितम्। महदपनीतं अन्याय इति वा॥ 5-184-11 दुष्प्रणीतेन दुर्न येन॥ 5-184-32 अभिज्ञश्चैवेति झ. पाठः॥ 5-184-184 चतुरशीत्यधिकशततमोध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.